|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.242. अध्यायः 242
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति प्राणिनां मरणस्य स्वाभाविकत्वयत्नसाध्यत्वभेदेन द्वैविध्यकथनपूर्वकं द्वितीयस्य योगादिना शरीरत्यागादिभेदेन चातुर्विध्यकथनेन तस्य महाफलहेतुत्वकथनम्॥ 1 ॥ कामक्रोधादिना शरीरत्यागस्य नकरभोगहेतुत्वकथनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्मानुषाः केचित्कालधर्ममुपस्थिताः।
प्राणमोक्षं कथं कृत्वा परत्रि हितमाप्नुयुः॥ 13-242-1(90940)
महेश्वर उवाच। 13-242-2x(7661)
हन्त ते कथयिष्यामि शृणु देवि समाहिता।
द्विविधं मरणं लोके स्वभावाद्यत्नतस्तथा॥ 13-242-2(90941)
तयोः स्वभावं नापायं यत्नतः करणोद्भवम्।
एतयोरुभयोर्देवि विधानं शृणु शोभने॥ 13-242-3(90942)
कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम्।
यत्नजं नाम मरणमात्मत्यागो मुमूर्षया॥ 13-242-4(90943)
तत्राकल्यशरीरस्य जरा व्याधिश्च कारणम्।
महाप्रस्थानगमनं तथा प्रायोपवेशनम्।
जलावगाहनं चैव अग्निचित्यां प्रवेशनम्॥ 13-242-5(90944)
एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम्।
एतेषां क्रमयोगेन विधानं शृणु शोभने॥ 13-242-6(90945)
स्वधर्मयुक्तं गार्हस्थ्यं चिरमूढ्वा विधानतः।
तत्रानृण्यं च सम्प्राप्य वृद्धो वा व्याधितोऽपि वा॥ 13-242-7(90946)
दर्शयित्वा स्वदौर्बल्यं सर्वानेवानुमान्य च।
सर्वं विहाय बन्धूंश्च क्रमाणां भरणं तथा॥ 13-242-8(90947)
दानानि विधिवत्कृत्वा धर्मिकार्यर्थमात्मनः।
अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन्॥ 13-242-9(90948)
अहतं वस्त्रमाच्छाद्य बद्ध्वा तत्कुशरज्जुना।
उपस्पृश्च प्रतिज्ञाय व्यवसायपुरसरम्॥ 13-242-10(90949)
परित्यज्य ततो ग्राम्यं धर्मं कुर्याद्यथेप्सितम्।
महाप्रस्तानमिच्छेच्चेत्प्रतिष्ठेतोत्तरां दिशम्॥ 13-242-11(90950)
भूत्वा तावन्निराहारो यावत्प्राणविमोक्षणम्।
चेष्टाहानौ शयित्वाऽपि तन्मनाः प्राणमुत्सृजेत्।
एवं पुण्यकृतां लोकानमलान्प्रतिपद्यते॥ 13-242-12(90951)
प्रायोपवेशनं चेच्छेत्तेनैव विधिना नरः।
देशे पुण्यतमे श्रेष्ठे निराहारस्तु संविशेत्॥ 13-242-13(90952)
अप्राणं तु शुचिर्भूत्वा कुर्वन्दानं स्वशक्तितः।
पुण्यं परित्यजेत्प्राणानेष धर्मः सनातनः।
एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते॥ 13-242-14(90953)
अग्निप्रवेशनं चेच्छेत्तेनैव विधिना शुभे।
कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा॥ 13-242-15(90954)
दैवतेभ्यो नमस्कृत्वा कृत्वा चापि प्रदक्षिणम्।
भूत्वा शुचिर्व्यवसितः प्रविशेदग्निसंस्तरम्।
सोपि लोकान्यथान्यायं प्राप्नुयात्पुण्यकर्मणाम्॥ 13-242-16(90955)
जलावगाहनं चेच्छेत्तेनैव विधिना शुभे।
ख्याते पुण्यतमे तीर्थे निमज्जेत्सुकृतं स्मरन्॥ 13-242-17(90956)
सोपि पुण्यतमाँल्लोकान्निःसङ्गात्प्रतिपद्यते।
ततः कल्यशरीरस्य संत्यागं शृणु तत्वतः॥ 13-242-18(90957)
रक्षार्थं क्षत्रियः श्रेष्ठः प्रजापालनकारणात्।
योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम्॥ 13-242-19(90958)
गोब्राह्मणार्थं सर्वेषां प्राणत्यागो विधीयते।
स्वराज्यरक्षणार्तं वा कुजनैः पीडिताः प्रजाः॥ 13-242-20(90959)
मोक्तुकामस्त्यजेत्प्राणान्युद्धमार्गे यथाविधि।
सुसन्नद्धो व्यवसितः सम्प्रविश्यापराङ्मुखः।
एवं राजा मृतः सद्यः स्वर्गलोके महीयते॥ 13-242-21(90960)
तादृशी सुगतिर्नास्ति क्षत्रियस्य विशेषतः।
भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्युपस्थिते॥ 13-242-22(90961)
कुर्वंस्तत्र तु साहाय्यमात्मप्राणानपेक्षया।
स्वाम्यर्थं संत्यजेत्प्राणान्पुण्याँल्लोकान्स गच्छति॥ 13-242-23(90962)
स्पृहणीयः सुरगणैस्तत्र नास्ति विचारणा।
एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत्तनुम्॥ 13-242-24(90963)
सोपि पुण्यमवाप्नोति आनृशंस्यव्यपेक्षया।
इत्येते जीवितत्यागे मार्गास्ते समुदाहृताः॥ 13-242-25(90964)
कामक्रोधाद्भयाद्वाऽपि यदि चेत्संत्यजेत्तनुम्।
सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात्॥ 13-242-26(90965)
स्वभावं मरणं नाम न तु चात्मेच्छया भवेत्।
यथा मृतानां यत्कार्यं तन्मे शृणु यथाविधि॥ 13-242-27(90966)
तत्रापि मरणं त्यागो मूढत्यागाद्विशिष्यते।
भूमौ संवेशयेद्देहं नरस्य विनशिष्यतः॥ 13-242-28(90967)
निर्जीवं वृणुयात्सद्यो वाससा तु कलेवरम्।
माल्यगन्धैरलङ्कृत्य सुवर्णेन च भामिनि॥ 13-242-29(90968)
श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन्मृतम्।
अथवा निक्षिपेद्भूमौ शरीरं जीववर्जितम्॥ 13-242-30(90969)
दिवा च शुक्लपक्षश्च उत्तरायणमेव च।
मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम्॥ 13-242-31(90970)
औदकं चाष्टकाश्राद्धं बहुभिर्बहुभिः कृतम्।
आप्यायनं मृतानां तत्परलोके भवेच्छुभम्।
एतत्सर्वं मया प्रोक्तं मानुषाणां हितं वचः॥ ॥ 13-242-32(90971)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 242 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|